|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.321. अध्यायः 321
Mahabharata - Shanti Parva - Chapter Topics
याज्ञवल्क्येन जनकंप्रति योगनिरूपणम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
याज्ञवल्क्य उवाच। 12-321-0x(6513)(78341)
साङ्ख्यज्ञानं मया प्रोक्तं योगज्ञानं निबोध मे।
यथाश्रुतं यथादृष्टं तत्त्वेन नृपसत्तम॥ 12-321-1(78342)
नास्ति साङ्ख्यसमं ज्ञानं नास्ति योगसमं बलम्।
तावुभावेकचर्यौ तावुभावनिधनौ स्मृतौ॥ 12-321-2(78343)
पृथक्पृथक्प्रपश्यन्ति येऽप्यबुद्धिरता नराः।
वयं तु राजन्पश्याम एकमेव तु निश्चयात्॥ 12-321-3(78344)
यदेव योगाः पश्यन्ति तत्साङ्ख्यैरपि दृश्यते।
एकं साङ्ख्यं च योगं च यः पश्यति स तत्त्ववित्॥ 12-321-4(78345)
रुद्रप्रधानानपरान्विद्धि योगानरिंदम्।
तेनैव चाथ देहेन विचरन्ति दिशो दश॥ 12-321-5(78346)
यावद्धि प्रलयस्तात सूक्ष्मेणाष्टगुणेन ह।
योगेन लोकान्विचरन्सुखं संन्यस्य चानघ॥ 12-321-6(78347)
तावदेवाष्टगुणिनं योगप्राहुर्मनीषिणः।
सूक्ष्ममष्टगुणं प्राहुर्नेतरं नृपसत्तम॥ 12-321-7(78348)
द्विगुणं योगत्यं तु योगानां प्राहुरुत्तमम्।
सगुणं निर्गुणं चैव यथाशास्त्रनिदर्शनम्॥ 12-321-8(78349)
धारणं चैव मनसः प्राणायामश्च पार्थिव।
एकाग्रता च मनसः प्राणायामस्तथैव च॥ 12-321-9(78350)
प्राणायामो हि सगुणो निर्गुणं धारयेन्मनः।
यद्यदृश्यति मुञ्चन्वै प्राणान्मैथिलसत्तम।
वाताधिक्यं भवत्येव तस्मात्तं न समाचरेत्॥ 12-321-10(78351)
निशायाः प्रथमे यामे चोदना द्वादश स्मृताः।
मध्ये स्वप्नात्परे यामे द्वादशैव तु चोदनाः॥ 12-321-11(78352)
तदेवमुपशान्तेन दान्तेनैकान्तशीलिना।
आत्मारामेण बुद्धेन योक्तव्योऽऽत्मा न संशयः॥ 12-321-12(78353)
पञ्चानामिन्द्रियाणां तु दोषानाक्षिप्य पञ्चधा।
शब्दं रूपं तथा स्पर्शं रसं गन्धं तथैव च॥ 12-321-13(78354)
प्रतिभामपवर्गं च प्रतिसंहृत्य मैथिल।
इन्द्रियग्राममखिलं मनस्यभिनिवेश्य ह॥ 12-321-14(78355)
मनस्तथैवाहंकारे प्रतिष्ठाप्य नराधिप।
अहंकारं तथा बुद्धौ बुद्धिं च प्रकृतावपि॥ 12-321-15(78356)
एवं हि परिसंख्याय ततो ध्यायन्ति केवलम्।
विरजस्कमलं नित्यमनन्तं शुद्धमव्रणम्॥ 12-321-16(78357)
तस्थुषं पुरुषं नित्यमभेद्यमजरामरम्।
शाश्वतं चाव्ययं चैव ईशानं ब्रह्म चाख्यम्॥ 12-321-17(78358)
युक्तस्य तु महाराज लक्षणान्युपधारम्।
लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वयेत्॥ 12-321-18(78359)
निर्वाते तु यथा दीपो ज्वलेत्स्नेहस --धतः।
निश्चलोर्ध्वशिखस्तद्वद्युक्तमाहुर्मनीषिण॥ 12-321-19(78360)
पाषाण इव मेघोत्थैर्यथा बिन्दुभिराहतः।
नालं चालयितुं शक्यस्तथा युक्तस्य लक्षणम्॥ 12-321-20(78361)
शक्तदुन्दुभिनिर्घोषैर्विधिधैर्गीतवादितैः।
क्रियमाणैर्न कम्पेत युक्तस्यैतन्निदर्शनम्॥ 12-321-21(78362)
तैलपात्रं यथा पूर्णं कराभ्यां गृह्य पूरुषः।
सोपानमारुहेद्भीतस्तर्ज्यमानोऽसिषणिभिः॥ 12-321-22(78363)
संयतात्मा भयात्तेषां न पात्राद्बिन्दुमुत्सृजेत्।
तथैवोत्तरमागम्य एकाग्रमनसस्तथा॥ 12-321-23(78364)
स्थिरत्वादिन्द्रियाणां तु निश्चलस्तथैव च।
एवं युक्तस्य तु मुनेर्लक्षणान्युपल----॥ 12-321-24(78365)
स्वयुक्तः पश्यते ब्रह्म यत्तत्परम----यम्।
महतस्तमसो मध्ये स्थितं ज्व नसा--भम्॥ 12-321-25(78366)
एतेन केवलं याति त्यक्त्वा देहमसाक्षिकम्।
कालेन महता राजञ्श्रुतिरेषा सनातनी॥ 12-321-26(78367)
एतद्धि योगं योगानां किमन्यद्योगलक्षणम्।
विज्ञाय तद्धि मन्यन्ते कृतकृत्या मनीषिणः॥ ॥ 12-321-27(78368)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकविंशत्यधिकत्रिशततमोऽध्यायः॥ 321॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-321-2 तावुभावेकपक्षौ तु इति ट. पाठः॥ 12-321-3 येऽल्पबुद्धिपरायणा इति ट. ड. पाठः॥ 12-321-6 सुखं वसति चानघेति ट. ड. पाठः॥ 12-321-8 निर्गुणं योगकृत्यं त्विति ट. पाठः॥ 12-321-10 दृश्यते यत्र मुञ्जन्वै इति ट. ड. पाठः॥ 12-321-14 मनस्यगिर एव चेति ड. पाठः। पूतिकामुपसर्गं वेति ड. पाठः॥ 12-321-24 हियमाणैर्न कम्पेयुरिति ड. पाठः॥ 12-321-26 कालेन केवलं जानञ्श्रुतिरेषा सनातनीति ड. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|